|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.173. अध्यायः 173
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति विप्रसेनजित्संवादानुवादः॥ 1॥ विप्रेण सेनजितंप्रति पिङ्गलोपाख्यानकथनम्॥ 2॥

Mahabharata - Shanti Parva - Chapter Text
युधिष्ठिर उवाच। 12-173-0x(5875)(71893)
धर्माः पितामहेनोक्ता राजधर्माश्रिताः शुभाः।
धर्ममाश्रमिणां श्रेष्ठं वक्तुमर्हसि सत्तम॥ 12-173-1(71894)
भीष्म उवाच। 12-173-2x(5876)
सर्वत्र विहितो धर्मः स्वर्ग्यः सत्यफलोदयः।
बहुद्वारस्य धर्मस्य नेहास्ति विफला क्रिया॥ 12-173-2(71895)
यस्मिन्यस्मिंस्तु विषये योयो याति विनिश्चयम्।
स तमेवाभिजानाति नान्यं भरतसत्तम्॥ 12-173-3(71896)
यथायथा च पर्येति लोकतन्त्रमसारवत्।
तथातथा विरागोऽत्र जायते नात्र संशयः॥ 12-173-4(71897)
एवं व्यवसिते लोके बहुदोषे युधिष्ठिर।
आत्ममोक्षनिमित्तं वै यतेत मतिमान्नरः॥ 12-173-5(71898)
युधिष्ठिर उवाच। 12-173-6x(5877)
नष्टे धने वा दारे वा पुत्रे पितरि वा मृते।
यया बुद्ध्या नुदेच्छोक तन्मे ब्रूहि पितामह॥ 12-173-6(71899)
भीष्म उवाच। 12-173-7x(5878)
नष्टे धने वा दारे वा पुत्रे पितरि वा मृते।
अहोदुःखमिति ध्यायञ्शोकस्यापचितिं चरेत्॥ 12-173-7(71900)
अत्राप्युदाहरन्तीममिहासं पुरातनम्।
यथा सेनजितं विप्रः कश्चिदेत्याब्रवीत्सुहृत्॥ 12-173-8(71901)
पुत्रशोकाभिसंतप्तं राजानं शोकविह्वलम्।
विषण्णमनसं दृष्ट्वा विप्रो वचनमब्रवीत्॥ 12-173-9(71902)
किंनु मुह्यसि मूढस्त्वं शोच्यः किमनु शोचसि।
यदा त्वामपि शोचंतः शोच्या यास्यन्ति तां गातिम्॥ 12-173-10(71903)
त्वं चैवाहं च ये चान्ये त्वां राजन्पर्युपासते।
सर्वे तत्र गमिष्यामो यत एवागता वयम्॥ 12-173-11(71904)
सेनजिदुवाच। 12-173-12x(5879)
का बुद्धिः किं तपो विप्र कः समाधिस्तपोधन।
किं ज्ञानं किं श्रुतं वा ते यत्प्राप्य न विषीदसि॥ 12-173-12(71905)
ब्राह्मण उवाच। 12-173-13x(5880)
हृष्यन्तमवसीदन्तं सुखदुःखविपर्यये।
आत्मानमनुशोचामि यो ममैष हृदि स्थितः॥ 12-173-13(71906)
पश्य भूतानि दुःखेन व्यतिषिक्तानि सर्वशः।
उत्तमाधममध्यानि तेषु तेष्विह कर्मसु॥ 12-173-14(71907)
आत्माऽपि चायं न मम सर्वा वा पृथिवी मम।
यथा मम तथाऽन्येषामिति मत्वा न मे व्यथा।
एतां बुद्धिमहं प्राप्य न प्रहृष्ये न च व्यथे॥ 12-173-15(71908)
यथा काष्ठं च काष्ठं च समेयातां महोदधौ।
समेत्य च व्यपेयातां तद्वद्भूतसमागमः॥ 12-173-16(71909)
एवं पुत्राश्च पौत्राश्च ज्ञातयो बान्धवास्तथा।
तेषु स्नेहो न कर्तव्यो विप्रयोगो ध्रुवो हि तैः॥ 12-173-17(71910)
अदर्शनादापतितः पुनश्चादर्शनं गतः।
न त्वाऽसौ वेद न त्वंतं कस्मात्त्वमनुशोचसि॥ 12-173-18(71911)
सुखान्तप्रभवं दुःखं दुःखान्तप्रभवं सुखम्।
सुखात्संजायते दुःखं दुःखात्संजायते सुखम्॥ 12-173-19(71912)
सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम्।
सुखदुःखे मनुष्याणां चक्रवत्परिवर्ततः॥ 12-173-20(71913)
सुखात्त्वं दुःखमापन्नः पुनरापत्स्यसे सुखम्।
न नित्यं लभते दुःखं न नित्यं लभते सुखम्॥ 12-173-21(71914)
[शरीरमेवायतनं सुखस्य
दुःखस्य चाप्यायतनं शरीरम्।
यद्यच्छरीरेण करोति कर्म
तेनैव देही समुपाश्नुते तत्॥ 12-173-22(71915)
जीवितं च शरीरेण तेनैव सह जायते।
उभे सह विवर्तेते उभे सह विनश्यतः॥ 12-173-23(71916)
स्नेहपाशैर्बहुविधैराविष्टविषया जनाः।
अकृतार्थाश्च सीदन्ते जलैः सैकतसेतवः॥ 12-173-24(71917)
स्नेहेन तैलवत्सर्वं सर्गचक्रे निपीड्यते।
तिलपीडैरिवाक्रम्य क्लेशैरज्ञानसंभवैः॥ 12-173-25(71918)
संचिनोत्यशुभं कर्म कलत्रापेक्षया नरः।
एकः क्लेशानवाप्नोति परत्रेह च मानवः॥ 12-173-26(71919)
पुत्रदारकुटुम्बेषु प्रसक्ताः सर्वमानवाः।
शोकपङ्कार्णवे मग्ना जीर्णा वनगजा इव॥ 12-173-27(71920)
पुत्रनाशे वित्तनाशे ज्ञातिसंबन्धिनामपि।
प्राप्यते सुमहद्दुःखं दावाग्निप्रतिमं विभो।
दैवायत्तमिदं सर्वं सुखदुःखे भवाभवौ॥ 12-173-28(71921)
असुहृत्ससुहृच्चापि सशत्रुर्मित्रवानपि।
सप्रज्ञः प्रज्ञया हीनो दैवेन लभते सुखम्॥] 12-173-29(71922)
नालं सुखाय सुहृदो नालं दुःखाय दुर्हृदः।
न च प्रज्ञाऽलमर्थानां न सुखानामलं धनम्॥ 12-173-30(71923)
न बुद्धिर्धनलाभाय न मौढ्यमसमृद्ध्ये।
लोकपर्यायवृत्तान्तं प्राज्ञो जानाति नेतरः॥ 12-173-31(71924)
बुद्धिमन्तं च शूरं च मूढं भीरुं जडं कविम्।
दुर्बलं बलवन्तं च भागिनं भजते सुखम्॥ 12-173-32(71925)
धेनुर्वत्सस्य गोपस्य स्वामिनस्तस्करस्य च।
पयः पिबति यस्तस्या धेनुस्तस्येति निश्चयः॥ 12-173-33(71926)
ये च मूढतमा लोके ये च बुद्धेः परं गताः।
ते नराः सुखमेधन्ते क्लिश्यत्यन्तरितो जनः॥ 12-173-34(71927)
अन्तेषु रेमिरे धीरा न ते मध्येषु रेमिरे।
अन्तप्राप्तिं सुखं प्राहुर्दुःखमन्तरमन्तयोः॥ 12-173-35(71928)
सुखं स्वपिति दुर्मेधाः स्वानि कर्माण्यचिन्तयन्।
अविज्ञानेन महता कम्बलेनेव संवृतः॥ 12-173-36(71929)
ये च बुद्धिं परां प्राप्ता द्वन्द्वातीता विमत्सराः।
तान्नैवार्था न चानर्था व्यथयन्ति कदाचन॥ 12-173-37(71930)
अथ ये बुद्धिमप्राप्ता व्यतिक्रान्ताश्च मूढताम्।
तेऽतिवेलं प्रहृष्यन्ति संतापमुपयान्ति च॥ 12-173-38(71931)
नित्यं प्रमुदिता मूढा दिवि देवगणा इव।
अवलेपेन महता परितृप्ता विचेतसः॥ 12-173-39(71932)
सुखं दुःखान्तमालस्यं दुःखं दाक्ष्यं सुखोदयम्।
भूतिश्चैव श्रिया सार्धं दक्षे वसति नालसे॥ 12-173-40(71933)
सुखं वा यदि वा दुःखं प्रियं वा यदि वाऽप्रियम्।
प्राप्तं प्राप्तमुपासीत हृदयेनापराजितः॥ 12-173-41(71934)
शोकस्थानसहस्राणि भयस्थानशतानि च।
दिवसेदिवसे मूढमाविशन्ति न पण्डितम्॥ 12-173-42(71935)
बुद्धिमन्तं कृतप्रज्ञं शुश्रूषुमनहंकृतम्।
शान्तं जितेन्द्रियं चापि शोको न स्पृशते नरम्॥ 12-173-43(71936)
एतां बुद्धिं समास्थाय शुद्धचित्तश्चरेद्बुधः।
`शुक्लकृष्णगतिज्ञं तं देवासुरविनिर्गमम्।'
उदयास्तमयज्ञं हि न शोकः स्प्रष्टुमर्हति॥ 12-173-44(71937)
यन्निमत्तो भवेच्छोकस्रासो वा क्रोध एव वा।
आयासो वा यतो मूलं तदेकाङ्गमपि त्यजेत्॥ 12-173-45(71938)
यद्यत्त्यजति कामनां तत्सुखस्याभिपूर्यते।
कामानुसारी पुरुषः कामाननुविनश्यति॥ 12-173-46(71939)
यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम्।
तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम्॥ 12-173-47(71940)
पूर्वदेहकृतं कर्म शुभं वा यदि वाऽशुभम्।
प्राज्ञं मूढं तथा शूरं भजते तादृशं नरम्॥ 12-173-48(71941)
एवमव किलैतानि प्रियाण्येवाप्रियाणि च।
जीवेषु परिवर्तन्ते दुःखानि च सुखानि च॥ 12-173-49(71942)
एतां बुद्धिं समास्थाय नावसीदेद्गुणान्वितः।
सर्वान्कामाञ्जुगुप्सेन कोपं कुर्वीत पृष्ठतः॥ 12-173-50(71943)
वृत्त एव हृदि प्रौढो मृत्युरेप मनोभवः।
क्रोधो नाम शरीरस्थो देहिनां प्रोच्यते बुधैः॥ 12-173-51(71944)
यदा संहरते कामान्कूर्मोऽङ्गानीव सर्वशः।
तदात्मज्योतिरात्मश्रीरात्मन्येव प्रसीदति॥ 12-173-52(71945)
किंचिदेव ममत्वेन यदा भवति कल्पितम्।
तदेव परितापाय नाशे संपद्यते तदा॥ 12-173-53(71946)
न बिभेति यदा चायं यदा चास्मान्न विभ्यति।
यदा नेच्छति न द्वेष्टि ब्रह्म संपद्यते तदा॥ 12-173-54(71947)
उभे सत्यानृते त्यक्त्वा शोकानन्दौ भयाभये।
प्रियाप्रिये परित्यज्य प्रशान्तात्मा भविष्यति॥ 12-173-55(71948)
यदा न कुरुते धीरः सर्वभूतेषु पापकम्।
कर्मणा मनसा वाचा ब्रह्म संपद्यते तदा॥ 12-173-56(71949)
या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः।
योसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखं॥ 12-173-57(71950)
अत्र पिङ्गलया गीता गाथा शृणु नराधिप।
यथा सा कृच्छ्रकालेऽपि लेभे शर्म सनातनम्॥ 12-173-58(71951)
संकेते पिङ्गला वेश्या कान्तेनासीद्विनाकृता।
अथ कृच्छ्रगता शान्तां बुद्धिमास्थापयत्तदा॥ 12-173-59(71952)
पिङ्गलोवाच। 12-173-60x(5881)
उन्मत्ताऽहमनुन्मत्तं कान्तमन्ववसं चिरम्।
अन्तिके रमणं सन्तं नैनमध्यगमं पुरा॥ 12-173-60(71953)
एकस्थूणं नवद्वारमपिधास्याम्यगारकम्।
का ह्यकान्तमिहायान्तं कान्त इत्यभिमंस्यते॥ 12-173-61(71954)
अकामाः कामरूपेण धूर्ताश्च नररूपिणः।
न पुनर्वञ्चयिष्यन्ति प्रतिबुद्धाऽस्मि जागृमि॥ 12-173-62(71955)
अनर्थोऽपि भवत्यर्थो दैवात्पूर्वकृतेन वा।
संबुद्धाऽहं निराकारा नाहमद्याजितेन्द्रिया॥ 12-173-63(71956)
सुखं निराशः स्वपिति नैराश्यं परमं सुखम्।
आशामनाशां कृत्वा हि सुखं स्वपिति पिङ्गला॥ 12-173-64(71957)
भीष्म उवाच। 12-173-65x(5882)
एतैश्चान्यैश्च विप्रस्य हेतुमद्भिः प्रभाषितैः।
पर्यवस्थापितो राजा सेनजिन्मुमुदे सुखम्॥ ॥ 12-173-65(71958)
इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि त्रिसप्तत्यधिकशततमोऽध्यायः॥ 173॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-173-1 राजनियोगाद्धर्मप्रवृत्तेः राजधर्माश्रिताः। श्रेष्ठः प्रशस्यतमोमोक्षधर्मस्ताम्। आश्रमिणामित्युक्तेर्गृहस्थादीनां सर्वेषामप्यत्राधिकारो दर्शितः॥ 12-173-2 मोक्षधर्मस्योत्तमत्वं वक्तुमितरधर्मस्य निकृष्टत्वमाह। सर्वत्रेति। सर्वत्राश्रमेषु धर्मो विहितो वेदेनाऽग्निहोत्रं जुहुयास्त्वर्गकाम इत्यादिना। स्वर्ग्यः स्वर्गफलसाधनम्। सत्यफलोदयः अवश्यंभाविफलोदयः। बहुद्वारस्य यज्ञदानाद्यनेकोपायस्य। क्रिया अनुष्ठानम्॥ 12-173-3 यस्मिन्विषये स्वर्गादिफले विनिश्चयं याति इदं फलं सद्यः प्राप्यमित्यभिसंधत्ते स तत्साधनमुपादत्ते न फलान्तरसाधनमित्यर्थः॥ 12-173-4 पर्येति जानाति लोकतन्त्रं अनोपकरणं धनदारादिकम्। अत्र लोके असारं तृणादि तद्वत्तच्छम्॥ 12-173-5 व्यवसिते निश्चिते। लोके स्थावरादिसत्यलोकपर्यन्ते। बहुदोषे ऐश्वर्यतारतम्यक्षयिष्णुत्वादिदोषबहुले। दोषदर्शननिश्चये वैराग्ये सतीत्यर्थः॥ 12-173-6 तन्मे तां मे॥ 12-173-7 अपचितिं प्रतीकारम्॥ 12-173-9 संतापोऽन्तर्बहिर्दाहः। विह्वलत्वं बाह्येन्द्रियचलनशून्यत्वम्। विषण्णं मूढं मनो यस्य। विवर्णवदनं दृष्ट्वेति ट. पाठः॥ 12-173-10 मूढाः सर्वेऽपि शोच्याः शोकाक्रान्ताश्चेत्यतो निःशोकं पदमन्वेष्टव्यमित्यर्थः॥ 12-173-12 बुद्धिरुपपत्तिः। तपस्तदालोचनम्। समाधिर्बुद्धेरेकत्र पर्यवसानम्। ज्ञानं साक्षात्कारः। श्रुतमेवेष्वर्थेषु प्रमाणम्॥ 12-173-14 तत्र बुद्धिमाहं सार्धद्वयेन पश्येति। व्यतिषिक्तानि व्याप्तान्युत्तमाधममध्यानि देवतिर्थङ्भनुष्यादीनि। कर्मसु निमित्तभूतेषु॥ 12-173-15 एवं कर्मजं दुःखं देवादीनामप्यस्तीति दृश्यमानभूतदृष्टान्तेनोपपाद्य तन्निवृत्तावप्युपपत्तिमाह आत्मेति॥ 12-173-16 तप आह यथेत्यादिना। भूतैः समागमः आत्मनो देहयोग इत्यर्थः॥ 12-173-17 तपःफलमाह एवमिति॥ 12-173-18 कः सन् किमनुशोचसि इति झ. पाठः॥ 12-173-25 स्नेहेन निमित्तेन तिलपीडैस्तैलिकैः॥ 12-173-26 अशुभं चौर्यादि। कलत्रापेक्षया भार्यादिपोषणार्थं धनसुखभागिनः सर्वे पापफलभागी त्वेक एवायमित्यर्थः॥ 12-173-28 भवाभवौ ऐश्वर्यानैश्वर्ये॥ 12-173-29 सुहृत्प्रत्युपकारमनपेक्ष्योपकारकर्ता। मित्रं प्रत्युपकारमपेक्ष्यो पकारकर्तृ॥ 12-173-30 सुखाय सुखं दातुं नालं न पर्याप्ताः॥ 12-173-31 असमृद्धये धनादिनाशाय। लोको भोग्यप्रपञ्चस्तस्य पर्यायो निर्माणं तत्र विषये वृत्तान्तं सिद्धान्तम्। प्राज्ञस्तत्त्ववित्॥ 12-173-32 मूढं निर्बुद्धिम्। जडमलसम्। कविं दीर्घदर्शिनम्। भागिनं सदैवम्। भजते स्वयमेवोपनमते। नतु तदर्थं यत्नोऽपेक्ष्य इत्यर्थः॥ 12-173-33 पयःपातुरेव धेनुरितरेषां तु तत्र ममता व्यर्था। तस्मादावश्यकादधिके स्पृहा न कार्येत्यर्थः॥ 12-173-35 धीराः पण्डिताः अन्तेषु अन्तयोः धर्ममोक्षयोः। व्यत्ययो बहुलमिति च व्यत्ययः। मध्येषु मध्ययोः अर्थकामयोः। अन्तप्राप्तिं धर्ममोक्षप्राप्तिं मोक्षस्य सुखरूपत्वाद्धर्मस्य सुखहेतुत्वात् सुखं प्राहुः। अन्तयोर्धर्ममोक्षयोरन्तरं मध्यं अर्थकामं दुःखं प्राहुरित्यर्थः॥ 12-173-37 द्वन्द्वातीताः सुखदुःखाद्यतीताः। मत्सरः परोत्कर्षासहिष्णुत्वं तद्वर्जिताः। अर्थाः ख्यादयः। अनर्थास्तद्वियोगाः॥ 12-173-38 अतिवेलमत्यन्तम्॥ 12-173-39 परिवृद्धा विचेतस इति ध. पाठः॥ 12-173-40 आलस्यं ज्ञानसाधनेष्वप्रवृत्तिः। दुःखं दुःखकरम्। भूतिरणिमाद्यैश्वर्यम्। श्रिया विद्यया। सुखं दुःखान्तमालक्ष्येति झ. पाठः॥ 12-173-41 सुखदुःखसाधने प्रियाप्रिये। हृदयेन हर्षशोकमयेनाऽपराजितोऽवशीकृतः॥ 12-173-42 शोकमूलानीष्टवियोगादीनि। भयमूलान्यनिष्टसंयोगादीनि। आविशन्ति स्वकार्योत्पादनेन व्याप्नुवन्ति॥ 12-173-43 बुद्धिर्ग्रन्थधारणसामर्थ्यं तद्वन्तम्। कृता स्वतःसिद्धा प्रज्ञा ऊहापोहकौशलं यस्य तम्। शुश्रूषुं शास्त्राम्यासपरम्। शुश्रूषमनसूयकमिति झ. पाठः। तत्र अनसूयकं शास्त्रीयेऽर्थे दोषदृष्टिरसूया तद्रहितमित्यर्थः॥ 12-173-44 शुक्लं सत्वं कृष्णं तमस्ताभ्यां प्राप्ये गती प्रकाशावरणकार्ये मुक्तिसंसाराख्ये तज्ज्ञम्। देवा दानदयादिरूपाः सात्विक्यश्चेतोवृत्तयः। असुरा राजस्यस्तामस्यो लोभमोहाद्यास्ता एव तासामुभयीनामपि विशेषेण निर्गमो बहिर्भावो यस्यात्तं उदया स्तमयज्ञं देहिनां जन्मविनाशज्ञम्॥ 12-173-45 यत आयासस्तन्मूलं कारणमायासादेरेकाङ्गं शरीरैकदेशभूतमपि त्यजेत् किमुत धनदारादि॥ 12-173-46 कामानां विषयाणां मध्ये॥ 12-173-47 लोके मानुषे। दिव्यं स्वर्गभवम्। तृष्णाक्षयो वैराग्यम्॥ 12-173-48 कर्तारमजितं कर्म शुभं वा यदि वाऽशुभमिति ड. पुस्तकपाठ॥ 12-173-56 पापकं हिंसनम्॥ 12-173-58 कृच्छ्रकाले दुःखकाले। लेभे धर्मं सनातनमिति घ. पाठः। ब्रह्म सनातनमिति ड. पाठः॥ 12-173-59 आस्थापयत् व्यवस्थापितवती॥ 12-173-60 अन्तिके हृदयकोशे रमणमानन्दप्रदम्॥ 12-173-61 एकस्थूणं एकात्माधारं अगारं शरीराख्यम्॥ 12-173-62 जागृमि जागर्मि॥ 12-173-65 पर्ववस्थापित आत्मतत्त्वे निष्ठां प्रापितः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|